Sri Ramadotha (Anjaneya) Stotram - श्री रामदूत (आञ्जनेय) स्तोत्रम् - Stotra स्तोत्रनिधि → श्री हनुमान् स्तोत्राणि → श्री रामदूत (आञ्जनेय) स्तोत्रम् रं रं रं रक्तवर्णं दिनकरवदनं तीक्ष्णदंष्ट्राकरालं रं रं रं रम्यतेजं गिरिचलनकरं कीर्तिपञ्चादि वक्त्रम् । रं रं रं राजयोगं सकलशुभनिधिं सप्तभेतालभेद्यं रं रं रं राक्षसान्तं सकलदिशयशं रामदूतं नमामि ॥ १ ॥ खं खं खं खड्गहस्तं विषज्वरहरणं वेदवेदाङ्गदीपं खं खं खं खड्गरूपं त्रिभुवननिलयं देवतासुप्रकाशम् । खं खं खं कल्पवृक्षं मणिमयमकुटं माय मायास्वरूपं खं खं खं कालचक्रं सकलदिशयशं रामदूतं नमामि ॥ २ ॥ इं इं इं इन्द्रवन्द्यं जलनिधिकलनं सौम्यसाम्राज्यलाभं इं इं इं सिद्धियोगं नतजनसदयं आर्यपूज्यार्चिताङ्गम् । इं इं इं सिंहनादं अमृतकरतलं आदिअन्त्यप्रकाशं इं इं इं चित्स्वरूपं सकलदिशयशं रामदूतं नमामि ॥ ३ ॥ सं सं सं साक्षिभूतं विकसितवदनं पिङ्गलाक्षं सुरक्षं सं सं सं सत्यगीतं सकलमुनिनुतं शास्त्रसम्पत्करीयम् । सं सं सं सामवेदं निपुण सुललितं नित्यतत्त्वस्वरूपं सं सं सं सावधानं सकलदिशयशं रामदूतं नमामि ॥ ४ ॥ हं हं हं हंसरूपं स्फुटविकटमुखं सूक्ष्मसूक्ष्मावतारं हं हं हं अन्तरात्मं रविशशिनयनं रम्यगम्भीरभीमम् । हं हं हं अट्‍टहासं सुरवरनिलयं ऊर्ध्वरोमं करालं हं हं हं हंसहंसं सकलदिशयशं रामदूतं नमामि ॥ ५ ॥ इति श्री रामदूत स्तोत्रम् ॥o