॥ महाकालभैरवाष्टकम् अथवा तीक्ष्णदंष्ट्रकालभैवाष्टकम् ॥ यं यं यं यक्षरूपं दशदिशिविदितं भूमिकम्पायमानं सं सं संहारमूर्तिं शिरमुकुटजटा शेखरंचन्द्रबिम्बम् । दं दं दं दीर्घकायं विक्रितनख मुखं चोर्ध्वरोमं करालं पं पं पं पापनाशं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ १॥ रं रं रं रक्तवर्णं, कटिकटिततनुं तीक्ष्णदंष्ट्राकरालं घं घं घं घोष घोषं घ घ घ घ घटितं घर्झरं घोरनादम् । कं कं कं कालपाशं द्रुक् द्रुक् दृढितं ज्वालितं कामदाहं तं तं तं दिव्यदेहं, प्रणामत सततं, भैरवं क्षेत्रपालम् ॥ २॥ लं लं लं लं वदन्तं ल ल ल ल ललितं दीर्घ जिह्वा करालं धूं धूं धूं धूम्रवर्णं स्फुट विकटमुखं भास्करं भीमरूपम् । रुं रुं रुं रूण्डमालं, रवितमनियतं ताम्रनेत्रं करालम् नं नं नं नग्नभूषं , प्रणमत सततं, भैरवं क्षेत्रपालम् ॥ ३॥ वं वं वायुवेगं नतजनसदयं ब्रह्मसारं परन्तं खं खं खड्गहस्तं त्रिभुवनविलयं भास्करं भीमरूपम् । चं चं चलित्वाऽचल चल चलिता चालितं भूमिचक्रं मं मं मायि रूपं प्रणमत सततं भैरवं क्षेत्रपालम् ॥ ४॥ शं शं शं शङ्खहस्तं, शशिकरधवलं, मोक्ष सम्पूर्ण तेजं मं मं मं मं महान्तं, कुलमकुलकुलं मन्त्रगुप्तं सुनित्यम् । यं यं यं भूतनाथं, किलिकिलिकिलितं बालकेलिप्रदहानं आं आं आं आन्तरिक्षं , प्रणमत सततं, भैरवं क्षेत्रपालम् ॥ ५॥ खं खं खं खड्गभेदं, विषममृतमयं कालकालं करालं क्षं क्षं क्षं क्षिप्रवेगं, दहदहदहनं, तप्तसन्दीप्यमानम् । हौं हौं हौंकारनादं, प्रकटितगहनं गर्जितैर्भूमिकम्पं बं बं बं बाललीलं, प्रणमत सततं, भैरवं क्षेत्रपालम् ॥ ६॥ var वं वं वं वाललीलं सं सं सं सिद्धियोगं, सकलगुणमखं, देवदेवं प्रसन्नं पं पं पं पद्मनाभं, हरिहरमयनं चन्द्रसूर्याग्नि नेत्रम् । ऐं ऐं ऐं ऐश्वर्यनाथं, सततभयहरं, पूर्वदेवस्वरूपं रौं रौं रौं रौद्ररूपं, प्रणमत सततं, भैरवं क्षेत्रपालम् ॥ ७॥ हं हं हं हंसयानं, हसितकलहकं, मुक्तयोगाट्टहासं, ? धं धं धं नेत्ररूपं, शिरमुकुटजटाबन्ध बन्धाग्रहस्तम् । तं तं तंकानादं, त्रिदशलटलटं, कामगर्वापहारं, भ्रुं भ्रुं भ्रुं भूतनाथं, प्रणमत सततं, भैरवं क्षेत्रपालम् ॥ ८॥ इति महाकालभैरवाष्टकं सम्पूर्णम् । नमो भूतनाथं नमो प्रेतनाथं नमः कालकालं नमः रुद्रमालम् । नमः कालिकाप्रेमलोलं करालं नमो भैरवं काशिकाक्षेत्रपालम् ॥र